सोमशब्दात् ट्यण् प्रत्ययो भवति सा ऽस्य देवता इत्यस्मिन् विषये। अणो ऽपवादः। णकारो वृद्ध्यर्थः। टकारो ङीबर्थः। सोमो देवता अस्य सौम्यं हविः। सौम्यं सूक्तम्। सौम्यी ऋक्।
सोमाट्ट()ण्। सौम्यमिति। सोमो देवता अस्येति विग्रहः। टित्त्वस्य प्रयोजनमाह--टित्त्वान्ङीबिति। सौमीति। सोमो देवता अस्या ऋच इति विग्रहः।ङीपि "हलस्तद्धितस्ये"ति यलोपः।